pachai maamalai pol mene

Wednesday, February 17, 2010

conclusion of sundarakandam

Conclusion of sundarakanda parayanam

 

स्वस्ति प्रजाभ्यःपरिपालयन्तां न्याय्येन मार्गेण महीं महीशाः ।

गोब्राह्मणेभ्यः शुभमस्तु नित्यम् लोकाः समस्ताःसुखिनो भवन्तु ।।

काले वर्षतु पर्जन्यः पृथ्ववी सस्यशालिनी देशोयं क्षोभरहितः ब्राह्मणाः सन्तु निर्भयाः।।

अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः अधनाः सधनाः सन्तु जीवन्तु शरदां शतम् ।।

चरितं रघुनाथस्य शतकोटिप्विस्तरं एकैकमक्षरं प्रोक्तं महापातकनाशनम्।।

श्रृण्वन् रामायणंभक्त्या यः पादं पदमेव वा स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा।।

रामाय राम भद्राय रामचन्द्राय वेधसेरघुनाथाय नाथाय सीतायाः पतयेनमः।।

यन्मङ्गळं सहस्राक्षे सर्वदेवनमस्कृते वृत्रनाशे समभवत् तत्तेभवतु मङ्गळम्।।

यन्मङ्गळं सुपर्ण्णस्य विनता अकल्पयत् पुरा अमृतं प्रार्थयानस्य तत्तेभवतु मङ्गळम्।।

अमृतोत्पादने दैत्यान् घ्नतो वज्रधरसूय यत् अदितिर्मंगळं प्रादात् तत्तेभवतु मङ्गळम्।।

त्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजसः यदासीन् मङ्गळम्र् राम तत्तेभवतु मङ्गळम्।।

 

ऋतवः सागराः द्वीपाः वेदाः लोका दिशश्च च मंगळाणि महाबाहो दिशन्तु तच सर्वदा ।।

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेःस्भावात्

करोमि यद्यद् सकलम् परस्मै नारायणाति समर्पयामि।.

 

 

 

 


No comments:

Post a Comment