pachai maamalai pol mene

Sunday, February 21, 2010

Beginning of sundarakanda paarayayanam

Beginning of sundarakanda paarayayanam

वागीशाद्या सुमनसः सर्वार्थानामुपक्रमे यं नत्वाकृतकृत्यः स्युः तं नममि गजाननम्।

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना

हस्तैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण

भासा कुन्देन्दुशंखस्फटिकमणिनिभा भासमाना असमाला

सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ।

कूजन्तं रामरामेति मधुरं मधुराक्षरं आरुह्य कविताशाखं वन्दे वात्मीकि कोकिलम्।

वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः शृण्वन् राम कथानादं को न याति परां गतिम्।

यः पिबन् सततं रामचरितामृत सागरं अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम्।

गोष्पदीकृतवाराशीं मशकीकृतराक्षसं रामायणमहामालारत्नं वन्दे अनिलात्मजम्।

अञ्जनानन्दनं वीरं जानकीशोकनाशनं कपीशमक्षहन्तारं वन्दे लङकाभयङ्करम्।

उल्लङघ्यसिन्धेः सलिलंसलीलं यःशोकवह्निं जनकात्गजायाः

आदाय तेनैव ददाह लङकां नमामि तं प्राञ्जलिराञ्जनैयम् ।।

आञ्जनेयमतिपाटलाननं काञ्जनाद्रिकमनीयलोचनम् । 

पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ।।

यत्र यत्र रघुनाथकीर्तनम् तत्र तत्र कृतमस्तकाञ्जलिम्।

बाष्पवारिपरिपूर्णलोचनम् मारुतिं नमत राक्षसान्तकम् ।। 

मनोगवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यम् श्रीरामदूतं शिरसा नमामि।।

यःकर्णाञ्जलिसम्पुटैरहरह समयक् पिबत्याद

राद्वाल्मीकेर्व्वदनारिन्दगलितं रामायणाख्यं मधुः

जन्मववयाधिजराविपत्तिमरणैरत्यन्तसोपद्रवम्

संसारं स विहाय गच्छति पुमान्विणोः पदं शाश्वतम् ।।

तदुपगतसमाससन्धियोगं सममधुरोपनतर्त्थवाक्यबद्धम्

रघुवरचरिते मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ।।

वाल्मीकिगिरिसंभूता रामसागरगामिनी पुनाति भुवनंपुण्या रामायणमहानदी ।

श्लोकसारजलाकीरंणं सर्ग्गकल्लोलसन्कुलम् काण्डग्राह महामीन वन्दे रामायणार्णवम् ।।

वेदवेद्ये परे पुंसि जाते दशरथात्मजे वेदः प्राचेतसा आसीत् साक्षात् रमायणात्मना ।

वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्येपुष्पकगासने मणिमये वीरासने सुस्थितम् ।

अग्रे वाचयतिप्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामळम् ।।वामे भूमिसुता पुरश्च हनुमान् पश्चात्सुमित्रासुतः शत्रुघ्नो भरतश्च पार्श्व दलयोर्वाय्वादिकोणेषु च

सुग्रीवश्च विभीषणश्चयुवराट् तारासुतो जांबवान् मध्ये नीलसरोजकोमळरुचिं रामं भजेश्यामळम् ।।

नमोस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै

नमोस्तु रुद्रेन्द्र यमानिलेभ्यः नमोस्तु चन्द्रारक मरुद्गणेभ्यः ।।